Nava Durga  Stuti

The nine forms of Durga – Shailputri, Brahmacharini, Chandraghanta, Kushmanda, Skandamata, Katyayni, Mahagauri, Siddhadhatri,and Kalratri, are envisioned with the great goddess. She assumes these manifold forms of Shakti in battle, as described in the Durga Saptasati.

नवदुर्गा स्तुति

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघटेति कुष्‍माण्‍डेति चतुर्थकं ॥

पंचमं स्कन्दमातेति षष्‍ठं कात्यायनिति च ।
सप्‍तमं कालारात्रीति महगौरिति च अष्‍ठंमम्‌ ॥

नवमं सिध्हिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्‍म्णैव महात्मना ॥

शैलपुत्री स्तुति

जगत्पजये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि। सर्वात्मिकेशि कौमारि जगन्मातर्नमोsस्तु ते॥

ब्रह्मचारिणी स्तुति

त्रिपुरां त्रिर्गुणाधारां मार्गज्ञानस्वरूपिणीम् । त्रैलोक्यवन्दितां देवीं त्रिमूर्ति प्रणमाम्यहम् ॥

चन्द्रघण्डा स्तुति

कालिकां तु कलातीतां कल्याणहृदयां शिवाम् । कल्याणजननीं नित्यं कल्याणीं प्रणमाम्यहम् ॥

कूष्माण्डा स्तुति

अणिमाहिदगुणौदारां मकराकारचक्षुषम् । अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम् ॥

स्कन्दमाता स्तुति

चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जनीम् । तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम् ॥

कात्यायनी स्तुति

सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् । सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम् ॥

कालरात्रि स्तुति

चण्डवीरां चण्डमायां रक्तबीज-प्रभञ्जनीम् । तां नमामि च देवेशीं कालरात्रीं गुणशालिनीम् ॥

महागौरी स्तुति

सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनिम् । सन्तोषजननीं देवीं महागौरी प्रणमाम्यम् ॥

सिद्धिदात्री स्तुति

दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि । प्रणमामि सदा भक्तया दुर्गा दुर्गतिनाशिनीम् ॥

Published on March 30, 2010 at 2:14 am  Comments Off on Nava Durga  Stuti